प्राग्वतेष्ठञ् (*४,१।१८) इत्य् अत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारे ऽतिदिश्यन्ते । परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्य् एतस्मिन् विषये । अणादीनाम् अपवादः । सङ्ख्या अपि परिमाण-ग्रहणेन गृह्यते, न रूढिपरिमाणम् एव । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारो नैष्किकः । शतेन क्रीतं शत्यम्, शतिकम् । शतस्य विकारः शत्यः, शतिकः । साहस्रः । वतिः सर्वसादृश्यार्थः । अध्यर्धपूर्वाद् द्विगोर् लुग् असञ्ज्ञायाम् (*५,१।२८) इत्य् एवम् आदिकम् अप्य् अतिदिश्यते । द्विसहस्रः, द्विसाहस्रः । द्विनिष्कः, द्विनैष्किकः ॥ उष्ट्राद् वुञ्
prāgvateṣṭhañ (*4,1.18) ity ata ārabhya krītārthe ye pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante / parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity etasmin viṣaye / aṇādīnām apavādaḥ / saṅkhyā api parimāṇa-grahaṇena gṛhyate, na rūḍhiparimāṇam eva / niṣkeṇa krītaṃ naiṣkikam / evaṃ niṣkasya vikāro naiṣkikaḥ / śatena krītaṃ śatyam, śatikam / śatasya vikāraḥ śatyaḥ, śatikaḥ / sāhasraḥ / vatiḥ sarvasādṛśyārthaḥ / adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity evam ādikam apy atidiśyate / dvisahasraḥ, dvisāhasraḥ / dviniṣkaḥ, dvinaiṣkikaḥ // uṣṭrād vuñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.