वा इत्य् एव । जम्ब्वाः फले ऽभिधेये प्रत्ययस्य वा लुप् भवति । युक्तवद्भावे विशेषः । जम्ब्वाः फलम् जम्बूः फलम्, जम्बु फलम्, जाम्बवम् इति वा । लुप्-प्रकरणे पह्ल-पाकशुषाम् उपसङ्ख्यानम् । व्रीहयः । यवाः । माषाः । मुद्गाः । तिलाः । पुष्पमूलेसु बहुलम् । मल्लिकायाः पुष्पम् मल्लिका । नवमल्लिका जातिः । बिदार्याः मूलं बिदारी । अंशुमती । बृहती । न च भवति । पाटलानि पुष्पाणि । शाल्वानि मूलनि । बहुलवचनात् क्वचिद् अन्यद् अपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति ॥ हरीतक्य्-आदिभ्य श्च
vā ity eva / jambvāḥ phale 'bhidheye pratyayasya vā lup bhavati / yuktavadbhāve viśeṣaḥ / jambvāḥ phalam jambūḥ phalam, jambu phalam, jāmbavam iti vā / lup-prakaraṇe pahla-pākaśuṣām upasaṅkhyānam / vrīhayaḥ / yavāḥ / māṣāḥ / mudgāḥ / tilāḥ / puṣpamūlesu bahulam / mallikāyāḥ puṣpam mallikā / navamallikā jātiḥ / bidāryāḥ mūlaṃ bidārī / aṃśumatī / bṛhatī / na ca bhavati / pāṭalāni puṣpāṇi / śālvāni mūlani / bahulavacanāt kvacid anyad api bhavati, kadambaṃ puṣpam, aśokam, karavīram, bailvāni phalāni iti // harītaky-ādibhya śca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.