हरीतकी इत्य् एवम् आदिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति । लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्री-प्रत्ययश्रवणे च विशेषः । हरीतक्याः फलं हरीतकी । कोशातकी । नखरजनी । अत्र च व्यक्तिर् युक्तवद्भावेन+इष्यते, वचनं त्व् अभिधेयवद् एव भवति । हरीतक्याः फलानि हरीतक्यः । हरीतकी । कोशातकी । नखरजनी । शष्कण्डी । दाडी । दोडी । दीडी । श्वेतपाकी । अर्जुनपाकी । काला । द्राक्षा । ध्वङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका । येषां च फलपाक-निमित्तः शोषः । पुष्पमुलेषु बहुलम् । हरीतक्यादिः ॥ कंसीय-परशव्ययोर् यञ्-अञौ लुक् च
harītakī ity evam ādibhyaḥ śabdebhyaḥ phale pratyayasya lub bhavati / luki prāpte lupo vidhāne yuktavadbhāve strī-pratyayaśravaṇe ca viśeṣaḥ / harītakyāḥ phalaṃ harītakī / kośātakī / nakharajanī / atra ca vyaktir yuktavadbhāvena+iṣyate, vacanaṃ tv abhidheyavad eva bhavati / harītakyāḥ phalāni harītakyaḥ / harītakī / kośātakī / nakharajanī / śaṣkaṇḍī / dāḍī / doḍī / dīḍī / śvetapākī / arjunapākī / kālā / drākṣā / dhvaṅkṣā / gargarikā / kaṇṭakārikā / śephālikā / yeṣāṃ ca phalapāka-nimittaḥ śoṣaḥ / puṣpamuleṣu bahulam / harītakyādiḥ // kaṃsīya-paraśavyayor yañ-añau luk ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.