हैमन्तिकम् इति भाषायाम् अपि ठञं स्मरन्ति । अथ अण् च इति चकारः किम् अर्थः ? अण्, यथाप्राप्तं च ऋत्वण् इति । कः पुनर् अनयोर् विशेषः ? ऋत्वणि हि तकारलोपो न अस्ति हैमन्ति पङ्क्ती पङ्क्तिः इति । तद् एवं त्रीणि रूपाणि भवन्ति, हैमन्तिकम्, हैमन्तम्, हैमनम् इति ॥ सायं-चिरं-प्राह्णे-प्रगे ऽव्ययेभ्यष् ट्यु-ट्युलौ तुट् च
haimantikam iti bhāṣāyām api ṭhañaṃ smaranti / atha aṇ ca iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca ṛtvaṇ iti / kaḥ punar anayor viśeṣaḥ ? ṛtvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ iti / tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, haimanam iti // sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.