कालात् इत्य् एव । सायं चिरं प्राह्णे प्रगे इत्य् एतेभ्यः अव्ययेभ्यश् च कालवाचिभ्यः ट्यु-ट्युलौ प्रत्ययौ भवतः, तयोश् च अदिष्टयोः तुडागमो भवति । सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । अव्ययेभ्यः - दोषातनम् । दिवातनम् । सायम् इति मकारान्तं पदम् अव्ययम्, ततो ऽव्ययाद् एव सिद्धः प्रत्ययः । यस्तु स्यतेरन्तकर्मणो घञि साय-शब्दस् तस्य+इदं मकारान्तत्वं प्रत्यय-सन्नियोगेन निपात्यते । दिवसावसानं सायः । चिर-शब्दस्य अपि मकारान्तत्वं निपात्यते । प्राह्णे, प्रगे इत्य् एकारान्तत्वम् । चिरपरुत्परारिभ्यस्त्नो वक्तव्यः । चिरत्नम् । परुत्नम् । परारित्नम् । प्रगस्य छन्दसि गलोपश् च । प्रत्नम् । अग्रपश्चाड्डिमच् । अग्रिमम् । पश्चिमम् । अन्ताच् च+इति वक्तव्यम् । अन्तिमम् ॥ विभाषा पूर्वाह्ण-अपराह्णाभ्याम्
kālāt ity eva / sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ avyayebhyaś ca kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ tuḍāgamo bhavati / sāyantanam / cirantanam / prāhṇetanam / pragetanam / avyayebhyaḥ - doṣātanam / divātanam / sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ / yastu syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate / divasāvasānaṃ sāyaḥ / cira-śabdasya api makārāntatvaṃ nipātyate / prāhṇe, prage ity ekārāntatvam / ciraparutparāribhyastno vaktavyaḥ / ciratnam / parutnam / parāritnam / pragasya chandasi galopaś ca / pratnam / agrapaścāḍḍimac / agrimam / paścimam / antāc ca+iti vaktavyam / antimam // vibhāṣā pūrvāhṇa-aparāhṇābhyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.