पूर्वाह्ण-आदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तत्र जातः (*४,३।२५) इत्य् एतस्मिन् विषये सञ्ज्ञायां गम्यमानायाम् । पूर्वाह्णकः । अपराह्णकः । विभाषा पूर्वाह्ण-अपरह्णाभ्याम् (*४,३।२४) इत्य् अस्य अपवादः । आर्द्रकः । मूलकः । नक्षत्राणः अपवादः । प्रदोषकः । निशाप्रदोषाभ्यं च (*४,३।१४) इत्य् अस्य अपवादः । अवस्करकः । औत्सर्गिकस्याणः (*४,१।७३) अपवादः । असञ्ज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति ॥ पथः पन्थ च
pūrvāhṇa-ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye sañjñāyāṃ gamyamānāyām / pūrvāhṇakaḥ / aparāhṇakaḥ / vibhāṣā pūrvāhṇa-aparahṇābhyām (*4,3.24) ity asya apavādaḥ / ārdrakaḥ / mūlakaḥ / nakṣatrāṇaḥ apavādaḥ / pradoṣakaḥ / niśāpradoṣābhyaṃ ca (*4,3.14) ity asya apavādaḥ / avaskarakaḥ / autsargikasyāṇaḥ (*4,1.73) apavādaḥ / asañjñāyāṃ tu yathāprāptaṃ ṭhañādayaḥ eva bhavanti // pathaḥ pantha ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.