दिश् इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन् विषये । अणश्छस्य च अपवादः । दिशि भवम् दिश्यम् । वर्ग्यम् । मुख-जघन-शब्दयोर् अशरीर-अवयव-अर्थः पाठः, सेनामुख्यम्, सेनाजघन्यम् इति । दिश् । वर्ग । पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । मुख । जघ्न । मेघ । यूथ । उदकात् सञ्ज्ञयाम् । न्याय । वंश । अनुवंश । विश । काल । अप् । आकाश । दिगादिः ॥ शरीर-अवयवाच् च
diś ity evam ādibhyaḥ prātipadikebhyaḥ yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye / aṇaśchasya ca apavādaḥ / diśi bhavam diśyam / vargyam / mukha-jaghana-śabdayor aśarīra-avayava-arthaḥ pāṭhaḥ, senāmukhyam, senājaghanyam iti / diś / varga / pūga / gaṇa / pakṣa / dhāyyā / mitra / medhā / antara / pathin / rahas / alīka / ukhā / sākṣin / ādi / anta / mukha / jaghna / megha / yūtha / udakāt sañjñayām / nyāya / vaṃśa / anuvaṃśa / viśa / kāla / ap / ākāśa / digādiḥ // śarīra-avayavāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.