शुण्डिक इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति ततः आगतः इत्य् एतस्मिन् विषये । आयस्थानठको ऽपवादः । शुण्डिकाद् आगतः शौण्डिकः । कार्कणः । अण्-ग्रहणं बाधकबाधनार्थम् । औदपानः । शुण्डिक । कृकण । स्थण्डिल । उदपान । उपल । तीर्थ । भूमि । तृण । पर्ण । शुण्दिकादिः ॥ विद्या-योनि-सम्बन्धेभ्यो वुञ्
śuṇḍika ity evam ādibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati tataḥ āgataḥ ity etasmin viṣaye / āyasthānaṭhako 'pavādaḥ / śuṇḍikād āgataḥ śauṇḍikaḥ / kārkaṇaḥ / aṇ-grahaṇaṃ bādhakabādhanārtham / audapānaḥ / śuṇḍika / kṛkaṇa / sthaṇḍila / udapāna / upala / tīrtha / bhūmi / tṛṇa / parṇa / śuṇdikādiḥ // vidyā-yoni-sambandhebhyo vuñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.