तद् इत्य् एव । अधिकृत्य+एतद् अपेक्ष्य द्वितीया । अधिकृत्य प्रस्तुत्य, आगूर्य इत्य् अर्थः । तदिति द्वितीयासमर्थाद् अधिकृत्य कृते इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति यत् तत् कृतं ग्रन्थश् चेत् स भवति । सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः । गैरिमित्रः । यायातः । ग्रन्थे इति किम् ? सुभ्द्राम् अधिकृत्य कृतः प्रासादः । लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम् । वासवदत्ताम् अधिकृत्य कृता आख्यायिका वासवदत्ता । सुमनोत्तरा । उर्वशी । न च भवति । भिमरथी ॥ शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यश् छः
tad ity eva / adhikṛtya+etad apekṣya dvitīyā / adhikṛtya prastutya, āgūrya ity arthaḥ / taditi dvitīyāsamarthād adhikṛtya kṛte ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat tat kṛtaṃ granthaś cet sa bhavati / subhadrāmadhitya kṛto granthaḥ saubhadraḥ / gairimitraḥ / yāyātaḥ / granthe iti kim ? subhdrām adhikṛtya kṛtaḥ prāsādaḥ / lubākhyāyikārthasya pratyayasya bahulam / vāsavadattām adhikṛtya kṛtā ākhyāyikā vāsavadattā / sumanottarā / urvaśī / na ca bhavati / bhimarathī // śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.