देश-काल-व्यतिरिक्ताद् अचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सो ऽस्य भक्तिर् इत्य् एतस्मिन् विषये । अणो ऽपवादः । वृद्धाच् छं परत्वाद् बाधते । अपूपो भक्तिर् अस्य आपूपिकः । पायसिकः । शाष्कुलिकः । अचित्ताद् इति किम् ? दैवदत्तः । अदेशाद् इति किम् ? स्रौघ्नः । अकालात् इति किम् ? ग्रैष्मः ॥ महाराजाट् ठञ्
deśa-kāla-vyatiriktād acittavācinaḥ prātipadikāṭ ṭhak pratyayo bhavati so 'sya bhaktir ity etasmin viṣaye / aṇo 'pavādaḥ / vṛddhāc chaṃ paratvād bādhate / apūpo bhaktir asya āpūpikaḥ / pāyasikaḥ / śāṣkulikaḥ / acittād iti kim ? daivadattaḥ / adeśād iti kim ? sraughnaḥ / akālāt iti kim ? graiṣmaḥ // mahārājāṭ ṭhañ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.