नावाधिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्व् एव तार्यादिष्व् अर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर् लभ्यते । नावा तार्यम् नव्यम् उदकम् । नव्या नदी । शक्यार्थे कृत्यः । वयसा तुल्यः वयस्यः सखा । सञ्ज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं धर्म्यम् । ननु च धर्मादनपेते इति वक्ष्यमाणेन+एव सिद्धम् ? न+एतद् अस्ति । धर्मं यद् अनुवर्तते तद् धर्माद् अनपेतम् इत्य् उच्यते । फलं तु धर्माद् अपेत्य् एव, कार्यविरोधित्वाद् धर्मस्य । विषेण वध्यः विष्यः । विषेण वधम् अर्हति इत्य् अर्थः । मूलेन आनाम्यम् मूल्यम् । आनाम्यम् अभिभवनीयम् । पटादीनाम् उत्पत्तिकारणं मूलं तेन तदभिभूयते शेषीक्रियते । मूलं हि सगुणं मुल्यं करोति । पोरदुपधात् (*३,१।९८) इति यति प्राप्ते आनाम्यम् इति निपातनात् ण्यत् । मूलेन समः मूल्यः पटः । उपदानेन समानफलः इत्य् अर्थः । सीतया समितं सीत्यम् क्षेत्रम् । समितं सङ्गतम् इत्य् अर्थः । रथसीताहलेभ्यो यद् विधौ इति तद् अन्तविधिर् अपि इष्यते । परमसीत्यम् । उत्तरसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुल्या संमितं तुल्यम् । संमितं समानं, सदृशम् इत्य् अर्थः । यथा तुला परिच्छिनत्ति परम् एवं तद् अपि इति ॥ धर्म-पथ्य्-अर्थ-न्यायाद् अनपेते
nāvādhibhyo 'ṣṭabhyaḥ śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati / pratyayārthadvāreṇa tṛtīyā samarthavibhaktir labhyate / nāvā tāryam navyam udakam / navyā nadī / śakyārthe kṛtyaḥ / vayasā tulyaḥ vayasyaḥ sakhā / sañjñādhikāro 'bhidheyaniyamārthaḥ / tena vayasā tulye śatrau na bhavati / dharmeṇa prāpyaṃ dharmyam / nanu ca dharmādanapete iti vakṣyamāṇena+eva siddham ? na+etad asti / dharmaṃ yad anuvartate tad dharmād anapetam ity ucyate / phalaṃ tu dharmād apety eva, kāryavirodhitvād dharmasya / viṣeṇa vadhyaḥ viṣyaḥ / viṣeṇa vadham arhati ity arthaḥ / mūlena ānāmyam mūlyam / ānāmyam abhibhavanīyam / paṭādīnām utpattikāraṇaṃ mūlaṃ tena tadabhibhūyate śeṣīkriyate / mūlaṃ hi saguṇaṃ mulyaṃ karoti / poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt ṇyat / mūlena samaḥ mūlyaḥ paṭaḥ / upadānena samānaphalaḥ ity arthaḥ / sītayā samitaṃ sītyam kṣetram / samitaṃ saṅgatam ity arthaḥ / rathasītāhalebhyo yad vidhau iti tad antavidhir api iṣyate / paramasītyam / uttarasītyam / dvisītyam / trisītyam / tulyā saṃmitaṃ tulyam / saṃmitaṃ samānaṃ, sadṛśam ity arthaḥ / yathā tulā paricchinatti param evaṃ tad api iti // dharma-pathy-artha-nyāyād anapete
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.