वावचनम् अणादेः समावेश-अर्थम् । पृथोर् भावः प्रथिमा, पार्थवम् । म्रदिमा, मार्दवम् । तुर् इष्ठ-इम-ईयःसु (*६,४।१५४), टेः (*६,४।१५५) इति टिलोपः । र ऋतो हलदेर् लघोः (*६,४।१६१) इति रेफादेशः । त्वतलौ सर्वत्र भवत एव । पृथुत्वम्, पृथुता । मृदुत्वम्, मुदुता । पृथु । मृदु । महत् । पटु । तनु । ल्घु । बहु । साधु । वेणु । आशु । बहुल । गुरु । दण्ड । ऊरु । खण्ड । चण्ड । बाल । अकिंचन । होड । पाक । वत्स । मन्द । स्वादु । ह्रस्व । दीर्घ । प्रिय । वृष । ऋजु । क्षिप्र । क्षुप्र । क्षुद्र । पृथ्वादिः ॥ वर्ण-दृढ-आदिभ्यः ष्यञ् च
vāvacanam aṇādeḥ samāveśa-artham / pṛthor bhāvaḥ prathimā, pārthavam / mradimā, mārdavam / tur iṣṭha-ima-īyaḥsu (*6,4.154), ṭeḥ (*6,4.155) iti ṭilopaḥ / ra ṛto halader laghoḥ (*6,4.161) iti rephādeśaḥ / tvatalau sarvatra bhavata eva / pṛthutvam, pṛthutā / mṛdutvam, mudutā / pṛthu / mṛdu / mahat / paṭu / tanu / lghu / bahu / sādhu / veṇu / āśu / bahula / guru / daṇḍa / ūru / khaṇḍa / caṇḍa / bāla / akiṃcana / hoḍa / pāka / vatsa / manda / svādu / hrasva / dīrgha / priya / vṛṣa / ṛju / kṣipra / kṣupra / kṣudra / pṛthvādiḥ // varṇa-dṛḍha-ādibhyaḥ ṣyañ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.