वर्णविशेष-वाचिभ्यः प्रातिपदिकेभ्यो दृढ-आदिभ्यश् च ष्यञ् प्रत्ययो भवति, चकारात् इमनिच् च, तस्य भावः इत्य् एतस्मिन् विषये । शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता । कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता । दृढादिभ्यः - दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता । षकारो ङीषर्थः । औचिती । याथाकामी । दृढ । परिवृढ । भृश । कृश । चक्र । आम्र । लवण । ताम्र । अम्ल । शीत । उष्ण । जड । बधिर । पण्डित । मधुर । मूर्ख । मूक । वेर्यातलाभमतिमनः शारदानाम् । समो मतिमनसोः ॥ गुणवचन-ब्राह्मणादिभ्यः कर्मणि च
varṇaviśeṣa-vācibhyaḥ prātipadikebhyo dṛḍha-ādibhyaś ca ṣyañ pratyayo bhavati, cakārāt imanic ca, tasya bhāvaḥ ity etasmin viṣaye / śuklasya bhāvaḥ śauklyam, śuklimā, śuklatvam, śuklatā / kārṣṇyam, kṛṣṇimā, kṛṣṇatvam, kṛṣṇatā / dṛḍhādibhyaḥ - dārḍhyam, draḍhimā, dṛḍhatvam, dṛḍhatā / ṣakāro ṅīṣarthaḥ / aucitī / yāthākāmī / dṛḍha / parivṛḍha / bhṛśa / kṛśa / cakra / āmra / lavaṇa / tāmra / amla / śīta / uṣṇa / jaḍa / badhira / paṇḍita / madhura / mūrkha / mūka / veryātalābhamatimanaḥ śāradānām / samo matimanasoḥ // guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.