हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश् च अण् प्रत्ययो भवति भावकर्मणोर् अर्थयोः । द्विहायनस्य भावः कर्म ना द्वैहायनम् । त्रैहायनम् । युवादिभ्यः - यौवनम् स्थाविरम् । श्रोत्रियस्य यलोपश् च वाच्यः । श्रोत्रियस्य भावः कर्म वा श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु । पुरुषासे । सुहृत् । यातृ । श्रवण । कुस्त्री । सुस्त्रि । मुहृदय । सुभ्रातृ । वृषल । दुर्भ्रातृ । हृदयासे । क्षेत्रज्ञ । कृतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनृशंस । युवादिः ॥ इग्-अन्ताश् च लघु-पूर्वात्
hāyanāntebhyaḥ prātipadikebhyaḥ yuvādibhaś ca aṇ pratyayo bhavati bhāvakarmaṇor arthayoḥ / dvihāyanasya bhāvaḥ karma nā dvaihāyanam / traihāyanam / yuvādibhyaḥ - yauvanam sthāviram / śrotriyasya yalopaś ca vācyaḥ / śrotriyasya bhāvaḥ karma vā śrautram / yuvan / sthavira / hotṛ / yajamāna / kamaṇḍalu / puruṣāse / suhṛt / yātṛ / śravaṇa / kustrī / sustri / muhṛdaya / subhrātṛ / vṛṣala / durbhrātṛ / hṛdayāse / kṣetrajña / kṛtaka / parivrājaka / kuśala / capala / nipuṇa / piśuna / sabrahmacārin / kutūhala / anṛśaṃsa / yuvādiḥ // ig-antāś ca laghu-pūrvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.