इगन्ताच् च लघुपूर्वात् अण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्व-ग्रहणेन प्रातिपदिक-समुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्य इति लघुपूर्वः । कुतः पुनर् असौ लघुः पूर्वः । इक्-सन्निधानादिकः इति वज्ञायते । लघुः पूर्वो यस्माद् इकः तदन्तान् प्रातिपदिकाद् इत्य् अयम् अर्थो विवक्षितः । अपरे तत्पुरुष-कर्मधारयं वर्णयन्ति । इक् चासावन्तश् च इति इगन्तः । लघुपूर्व-ग्रहनेन स एव विशेष्यते, पश्चात् तेन प्रातिपदिकस्य तदन्तविधिः इति । अस्मिन् व्याख्याने ऽन्त-ग्रहणम् अतिरिच्यते । लघुपुर्वादिकः इत्य् एतावदेव वाच्यं स्यात् । शुचेर् भावः कर्म वा शौचम् । मौनम् । नागरम् हारीतकम् । पाटवम् । लाघवम् । इगन्तात् इति किम् ? पटत्वम् । घटत्वम् । लघुपूर्वात् इति किम् ? कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यम् इति ? ब्राह्मणादिषु कविशब्दो द्रष्तव्यः ॥ य-उपधाद् गुरु-उपोत्तमाद् वुञ्
igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ / laghupūrva-grahaṇena prātipadika-samudāyo viśeṣyate / laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ / kutaḥ punar asau laghuḥ pūrvaḥ / ik-sannidhānādikaḥ iti vajñāyate / laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād ity ayam artho vivakṣitaḥ / apare tatpuruṣa-karmadhārayaṃ varṇayanti / ik cāsāvantaś ca iti igantaḥ / laghupūrva-grahanena sa eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ iti / asmin vyākhyāne 'nta-grahaṇam atiricyate / laghupurvādikaḥ ity etāvadeva vācyaṃ syāt / śucer bhāvaḥ karma vā śaucam / maunam / nāgaram hārītakam / pāṭavam / lāghavam / igantāt iti kim ? paṭatvam / ghaṭatvam / laghupūrvāt iti kim ? kaṇḍūtvam / pāṇḍutvam / kathaṃ kāvyam iti ? brāhmaṇādiṣu kaviśabdo draṣtavyaḥ // ya-upadhād guru-upottamād vuñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.