द्वन्द्व-सञ्ज्ञकेभ्यः मनोज्ञ-आदिभ्यश् च वुञ् प्रत्ययो भवति भावकर्मणोः । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका । शैष्योपाध्यायिका । कौत्सकुशिकिका । मनोज्ञाद्भ्यः - मानोज्ञकम् । काल्याणकम् । मनोज्ञ । कल्याण । प्रियरूप । छान्दस । छात्र । मेधाविन् । अभिरूप । आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त । वैश्वदेव । युवन् । ग्रामपुत्र । ग्रामखण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शतपत्र । कुशल । मनोज्ञादिः ॥ गोत्रचरणाच् छ्लाघा-अत्याकार-तदवेतेषु
dvandva-sañjñakebhyaḥ manojña-ādibhyaś ca vuñ pratyayo bhavati bhāvakarmaṇoḥ / gopālapaśupālānāṃ bhāvaḥ karma vā gaupālapaśupālikā / śaiṣyopādhyāyikā / kautsakuśikikā / manojñādbhyaḥ - mānojñakam / kālyāṇakam / manojña / kalyāṇa / priyarūpa / chāndasa / chātra / medhāvin / abhirūpa / āḍhya / kulaputra / śrotriya / cora / dhūrta / vaiśvadeva / yuvan / grāmaputra / grāmakhaṇḍa / grāmakumāra / amuṣyaputra / amuṣyakula / śatapatra / kuśala / manojñādiḥ // gotracaraṇāc chlāghā-atyākāra-tadaveteṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.