गोत्रवाचिनः चरनवाचिनः च प्रातिपदिकात् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोर् अर्थयोः श्लाघादिषु विषयभूतेषु । तत्र श्लाघा विकत्थनम् । अत्याकारः पराधिक्षेपः । तदवेतः तत्प्राप्तः तज्ज्ञो वा । तद् इति गोत्रचरणयोः भावकर्मणी निर्दिश्येते । तत्प्राप्तः तदवगतवान् दवेत इत्य् उच्यते । श्लाघायां तावत् - गार्गिकया श्लाघते । काठिकया श्लाघते । गार्ग्यत्वेन कठत्वेन च विकत्थते इत्य् अर्थः । अत्याकारे - गार्गिकया अत्याकुरुते । काठिकया अत्याकुरुते । गार्ग्यत्वेन कठत्वेन च परानधिक्षिपति इत्य् अर्थः । तद्वेतः - गार्गिकामवेतः । काठिकामवेतः । गार्ग्यत्वं कठत्वं च प्राप्तः इत्य् अर्थः । तद् वा अवगतवान् इत्य् अर्थः । श्लाघादिषु इति किम् ? गार्ग्यत्वम् । कठत्वम् ॥ होत्राभ्यश् छः
gotravācinaḥ caranavācinaḥ ca prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor arthayoḥ ślāghādiṣu viṣayabhūteṣu / tatra ślāghā vikatthanam / atyākāraḥ parādhikṣepaḥ / tadavetaḥ tatprāptaḥ tajjño vā / tad iti gotracaraṇayoḥ bhāvakarmaṇī nirdiśyete / tatprāptaḥ tadavagatavān daveta ity ucyate / ślāghāyāṃ tāvat - gārgikayā ślāghate / kāṭhikayā ślāghate / gārgyatvena kaṭhatvena ca vikatthate ity arthaḥ / atyākāre - gārgikayā atyākurute / kāṭhikayā atyākurute / gārgyatvena kaṭhatvena ca parānadhikṣipati ity arthaḥ / tadvetaḥ - gārgikāmavetaḥ / kāṭhikāmavetaḥ / gārgyatvaṃ kaṭhatvaṃ ca prāptaḥ ity arthaḥ / tad vā avagatavān ity arthaḥ / ślāghādiṣu iti kim ? gārgyatvam / kaṭhatvam // hotrābhyaś chaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.