अध्यर्धपूर्वाद् द्विगोश् च कार्षापण-सहस्रान्तात् उत्तरस्य आर्हीय-प्रत्ययस्य विभाषा लुग् भवति । पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते । अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम् । द्विकार्षापणम्, द्विकार्षापणिकम् । औपसङ्ख्यानिकस्य टिठनो लुक् । अलुक्पक्षे च प्रतिरादेशो विकल्पितः । अध्यर्धप्रतिकम् । द्विप्रतिकम् । त्रिप्रतिकम् । सहस्रात् - अध्यर्धसहस्रम्, अध्यर्धसाहस्रम् । द्विसहस्रम्, द्विसाहस्रम् । अलुक्पक्षे सङ्ख्यायाः संवत्सर-सङ्ख्यस्य च इत्य् उत्तरपदवृद्धिः । सौवर्णशतमानयोर् उपसङ्ख्यानम् । अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम् । द्विसुवर्णम्, द्विसौवर्णिकम् । अध्यर्धशतमानम्, अध्यर्धशातमानम् । द्विशतमानम्, द्विशातमानम् । परिमाणान्तस्य इत्य् उत्तरपदवृद्धिः ॥ द्वि-त्रि-पूर्वान् निष्कात्
adhyardhapūrvād dvigoś ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati / pūrveṇa luki nitya prāpte vikalpyate / adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam / dvikārṣāpaṇam, dvikārṣāpaṇikam / aupasaṅkhyānikasya ṭiṭhano luk / alukpakṣe ca pratirādeśo vikalpitaḥ / adhyardhapratikam / dvipratikam / tripratikam / sahasrāt - adhyardhasahasram, adhyardhasāhasram / dvisahasram, dvisāhasram / alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca ity uttarapadavṛddhiḥ / sauvarṇaśatamānayor upasaṅkhyānam / adhyardhasuvarṇam, adhyardhasauvarṇikam / dvisuvarṇam, dvisauvarṇikam / adhyardhaśatamānam, adhyardhaśātamānam / dviśatamānam, dviśātamānam / parimāṇāntasya ity uttarapadavṛddhiḥ // dvi-tri-pūrvān niṣkāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.