शाणाद् वा (*५,१।३५) इत्य् एव । द्वि-त्रि-पूर्वाच् छाणान्तात् प्रातिपदिकाद् आर्हीयेष्व् अर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा । तेन त्रैरूप्यं समद्यते । द्वैशाणम्, द्विशाण्यम्, द्विशाणम् । त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम् । परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३।१७) इति पर्युदासादिवृद्धिर् एव भवति ॥ तेन क्रीतम्
śāṇād vā (*5,1.35) ity eva / dvi-tri-pūrvāc chāṇāntāt prātipadikād ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād yac ca vā / tena trairūpyaṃ samadyate / dvaiśāṇam, dviśāṇyam, dviśāṇam / traiśāṇam, triśāṇyam, triśāṇam / parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) iti paryudāsādivṛddhir eva bhavati // tena krītam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.