ठञादयस् त्रयोदश प्रत्ययाः प्रकृताः । तेषाम् इतः प्रभृति समर्थ-विभक्तयः प्रत्ययार्थाश् च निर्दिश्यन्ते तेन इति तृतीयासमर्थात् क्रीतम् इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । सप्तत्या क्रीतम् साप्ततिकम् । आशीतिकम् । नैष्किकम् । पाणिकम् । पादिकम् । माषिकम् । शत्यम् । शतिकम् । द्विकम् । त्रिकम् । तेन इति मूल्यात् करणे तृतीया समर्थ-विभक्तिः । अन्यत्रान् अभिधानान् न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतम् इति । द्विवचन-बहुवचन-अन्तात् प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतम् इति, अनभिधानाद् एव । यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणम् अस्ति तत्र द्विवचन-बहुवचन-अन्ताद् अपि प्रत्ययो भवति । द्वाभ्यां क्रीतम् द्विकम् । त्रिकम् । पञ्चकम् । तथा मुद्गैः क्रीतम् मौद्गिकम् । माषिकम् । न ह्य् एकेन मुद्गेन क्रयः सम्भवति ॥ तस्य निमित्तं संयोग-उत्पातौ
ṭhañādayas trayodaśa pratyayāḥ prakṛtāḥ / teṣām itaḥ prabhṛti samartha-vibhaktayaḥ pratyayārthāś ca nirdiśyante tena iti tṛtīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati / saptatyā krītam sāptatikam / āśītikam / naiṣkikam / pāṇikam / pādikam / māṣikam / śatyam / śatikam / dvikam / trikam / tena iti mūlyāt karaṇe tṛtīyā samartha-vibhaktiḥ / anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti / dvivacana-bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva / yatra tu prakṛtyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati / dvābhyāṃ krītam dvikam / trikam / pañcakam / tathā mudgaiḥ krītam maudgikam / māṣikam / na hy ekena mudgena krayaḥ sambhavati // tasya nimittaṃ saṃyoga-utpātau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.