द्विगोः इत्य् एव । वर्षान्ताद् द्विगोर् निर्वृत्तादिष्व् अर्थेषु वा खः प्रत्ययो भवति । पक्षे ठञ् । तयोश् च वा लुग् भवति । एवं त्रीणि रूपाणि भवन्ति । द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः । त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः । वर्षस्य अभविष्यति (*७,३।१६) इत्य् उत्तरपद-वृद्धिः । भाविनि तु त्रैवर्षिकः ॥ चित्तवति नित्यम्
dvigoḥ ity eva / varṣāntād dvigor nirvṛttādiṣv artheṣu vā khaḥ pratyayo bhavati / pakṣe ṭhañ / tayoś ca vā lug bhavati / evaṃ trīṇi rūpāṇi bhavanti / dvivarṣīṇo vyādhiḥ, dvivārṣikaḥ, dvivarṣaḥ / trivarṣīṇaḥ, trivārṣikaḥ, trivarṣaḥ / varṣasya abhaviṣyati (*7,3.16) ity uttarapada-vṛddhiḥ / bhāvini tu traivarṣikaḥ // cittavati nityam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.