तच् चरति इति च । महानाम्न्य ऋचः, तत् सहचरितं व्रतं तच्छब्देन+उच्यते । महानाम्नीश्चरति माहानामिकः । आदित्यव्रतिकः । गौदानिकः । भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस् तद्धिते (*६,४।१४४) इति टिलोपः । अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः । अवान्तरदीक्षां चरति अवान्तरदीक्षी । तिलव्रती । अष्टाचत्वारिंशतो ड्वुंश् च डिनिश् च वक्तव्यः । अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी । चातुर्मास्यानां यलोपश् च ड्वुंश् च डिनिश् च वक्तव्यः । चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी । चतुर्मास्याण् ण्यो यज्ञे तत्र भवे । चतुर्षु मासेषु भवानि चातुर्मास्यानि । सञ्ज्ञायामण् वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी । आषाढी । कार्तिकी । फाल्गुनी ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः
tac carati iti ca / mahānāmnya ṛcaḥ, tat sahacaritaṃ vrataṃ tacchabdena+ucyate / mahānāmnīścarati māhānāmikaḥ / ādityavratikaḥ / gaudānikaḥ / bhasyāḍhe iti puṃbadbhāvena ṅīpi nivṛtte nas taddhite (*6,4.144) iti ṭilopaḥ / avāntaradīkṣādibhyo ḍinirvaktavyaḥ / avāntaradīkṣāṃ carati avāntaradīkṣī / tilavratī / aṣṭācatvāriṃśato ḍvuṃś ca ḍiniś ca vaktavyaḥ / aṣṭācatvāriṃśad varṣāṇi vrataṃ carati aṣṭācatvāriṃśakaḥ, aṣṭācatvariṃśī / cāturmāsyānāṃ yalopaś ca ḍvuṃś ca ḍiniś ca vaktavyaḥ / cāturmāsyāni carati cāturmāsakaḥ, cāturamāsī / caturmāsyāṇ ṇyo yajñe tatra bhave / caturṣu māseṣu bhavāni cāturmāsyāni / sañjñāyāmaṇ vaktavyaḥ / caturṣu māseṣu bhavā cāturmāsī paurṇamāsī / āṣāḍhī / kārtikī / phālgunī // tasya ca dakṣiṇā yajñākhyebhyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.