तपः-सहस्राभ्याम् अण् च प्रत्ययो भवति । तापसः । साहस्रः । योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश् च । अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानम् । ज्योत्स्ना विद्यते ऽस्मिन् पक्षे ज्यौत्स्नः पक्षः । तामिस्रः । कौण्डलः । कौतपः । वैसर्पः । वौपादिकः ॥ सिकता-शर्कराभ्यां च
tapaḥ-sahasrābhyām aṇ ca pratyayo bhavati / tāpasaḥ / sāhasraḥ / yogavibhāga uttarārthaḥ, yathāsaṅkhyārthaś ca / aṇprakaraṇe jyotsnādibhya upsaṅkhyānam / jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ / tāmisraḥ / kauṇḍalaḥ / kautapaḥ / vaisarpaḥ / vaupādikaḥ // sikatā-śarkarābhyāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.