एकपूर्वाद् गोपूर्वाच् च प्रातिपदिकान् नित्यं ठञ् प्रत्ययो भवति मत्वर्थे । एकशतम् अस्य अस्ति इति ऐकशतिकः । ऐकसहस्रिकः । गोपूर्वात् च - गौशतिकः । गौसहस्रिकः । अत इत्य् एव एकविंशतिर् अस्य अस्ति इति न भवति । कथम् ऐकगविकः ? समासान्ते कृते भविष्यति । कथं गौशकटिकः ? शकटीशब्देन समानार्थः शकटशब्दो ऽस्ति, ततो भविष्यति । अवश्यं च अतः इत्य् अनुवर्त्यम्, द्वन्द्वोपतापगर्ह्यात् इत्य् एवम् आद्यर्थम् । नित्यग्रहणं मतुपो बाधनार्थम् । कथम् एकद्रव्यवत्त्वात् इति ? नैवायं साधुः । एकेन वा द्रव्यवत्त्वाद् इति समर्थनीयम् ॥ शत-सहस्र-अन्ताच् च निष्कात्
ekapūrvād gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe / ekaśatam asya asti iti aikaśatikaḥ / aikasahasrikaḥ / gopūrvāt ca - gauśatikaḥ / gausahasrikaḥ / ata ity eva ekaviṃśatir asya asti iti na bhavati / katham aikagavikaḥ ? samāsānte kṛte bhaviṣyati / kathaṃ gauśakaṭikaḥ ? śakaṭīśabdena samānārthaḥ śakaṭaśabdo 'sti, tato bhaviṣyati / avaśyaṃ ca ataḥ ity anuvartyam, dvandvopatāpagarhyāt ity evam ādyartham / nityagrahaṇaṃ matupo bādhanārtham / katham ekadravyavattvāt iti ? naivāyaṃ sādhuḥ / ekena vā dravyavattvād iti samarthanīyam // śata-sahasra-antāc ca niṣkāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.