तुन्दादिभ्यः प्रातिपदिकेभ्य इलच् प्रत्ययो भवति मत्वर्थे । चकाराद् इनिठनौ मतुप् च । तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान् । उदरिलः, उदरी, उदरिकः, उदरवान् । तुन्द । उदर । पिचण्ड । घट । यव । व्रीहि । स्वाङ्गाद् विवृद्धौ च । तुन्दादिः ॥ एक-गो-पूर्वाट् ठञ् नित्यम्
tundādibhyaḥ prātipadikebhya ilac pratyayo bhavati matvarthe / cakārād iniṭhanau matup ca / tundilaḥ, tundī, tundikaḥ, tundavān / udarilaḥ, udarī, udarikaḥ, udaravān / tunda / udara / picaṇḍa / ghaṭa / yava / vrīhi / svāṅgād vivṛddhau ca / tundādiḥ // eka-go-pūrvāṭ ṭhañ nityam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.