हृदयाच्चालुर् अन्यतरस्याम् । हृदयालुः, हृदयी, हृदयिकः, हृदयवान् । शीतोष्णतृप्रेभ्यस्तन्न सहत इत्य् आलुच् वक्तव्यः । शीतं न सहते शीतालुः । उष्णालुः । तृप्रालुः । तन्न सहत इति हिमाच्चेलुः । हिमं न सहते हिमेलुः । बलादूलच् । बलं न सहते बलूलः । वातात् समूहे च । वातं न सहत इति च । वातानां समूहः, वातं न सहते इति वा वातूलः । पर्वमरुद्भ्यां तन् वक्तव्यः । पर्वतः । मरुत्तः । अर्थात्तदभाव इनिर्वक्तव्यः । अर्थी । तदभावे इत्य् एव, अर्थवान् । तद् एतत् सर्वं बहुलग्रहणेन सम्पद्यते ॥ ऊर्णाया युस्
hṛdayāccālur anyatarasyām / hṛdayāluḥ, hṛdayī, hṛdayikaḥ, hṛdayavān / śītoṣṇatṛprebhyastanna sahata ity āluc vaktavyaḥ / śītaṃ na sahate śītāluḥ / uṣṇāluḥ / tṛprāluḥ / tanna sahata iti himācceluḥ / himaṃ na sahate himeluḥ / balādūlac / balaṃ na sahate balūlaḥ / vātāt samūhe ca / vātaṃ na sahata iti ca / vātānāṃ samūhaḥ, vātaṃ na sahate iti vā vātūlaḥ / parvamarudbhyāṃ tan vaktavyaḥ / parvataḥ / maruttaḥ / arthāttadabhāva inirvaktavyaḥ / arthī / tadabhāve ity eva, arthavān / tad etat sarvaṃ bahulagrahaṇena sampadyate // ūrṇāyā yus
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.