नेः इत्य् एव, नते नासिकायाः इति च । नि-शब्दान् नासिकाया नते ऽभिधेये इनच् पिटच् इत्य् एतौ प्रत्ययौ भवतः, तत्संनियोगेन च नि-शब्दस्य यथासङ्ख्यं चिक चि इत्य् एताव् आदेशौ भवतः । चिकिनः, चिपिटः ॥ ककारः प्रत्ययो वक्तव्यश्चिक् च प्रकृत्यादेशः । चिक्कः । तथा च+उक्तम् - इनच्-पिटच्-काश्चिकचिचिकादेशाश् च वक्तव्याः इति । क्लिन्नस्य चिल्-पिल्लश् च अस्य चक्षुषी । क्लिन्नस्य चिल् पिल् इत्य् एताव् आदेशौ भवतः लश् च प्रत्ययो ऽस्य चक्षुषी इत्य् एतस्मिन्न् अर्थे । क्लिन्ने अस्य चक्षुषी चिल्लः, पिल्लः । चुलादेशो वक्तव्यः । चुल्लः । अस्य इत्य् अनेन नार्थः । चक्षुषोर् एव अभिधाने प्रत्यय इष्यते । क्लिअन्ने चक्षुषी चिल्ले, पिल्ले चुल्ले । तद्योगात् तु पुरुषस् तथा+उच्यते ॥ उप-अधिभ्यां त्यकन्न् आसन्न-आरूढयोः
neḥ ity eva, nate nāsikāyāḥ iti ca / ni-śabdān nāsikāyā nate 'bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ / cikinaḥ, cipiṭaḥ // kakāraḥ pratyayo vaktavyaścik ca prakṛtyādeśaḥ / cikkaḥ / tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś ca vaktavyāḥ iti / klinnasya cil-pillaś ca asya cakṣuṣī / klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn arthe / klinne asya cakṣuṣī cillaḥ, pillaḥ / culādeśo vaktavyaḥ / cullaḥ / asya ity anena nārthaḥ / cakṣuṣor eva abhidhāne pratyaya iṣyate / klianne cakṣuṣī cille, pille culle / tadyogāt tu puruṣas tathā+ucyate // upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.