तद् अस्य इत्य् एव, प्रमाणे इति च । पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्याम् अस्य इति षष्ठ्यार्थे अण् प्रत्ययो भवति, चकाराद् द्वयसजादयः । पुरुषः प्रमाणम् अस्य पौरुषम्, पुरुषद्वयसम्, पुरुषदध्नम्, पुरुषमात्रम् । हास्तिनम्, हस्तिद्वयसम्, हस्तिदघ्नम्, हस्तिमात्रम् । द्विगोर् नित्यं लुक् । द्विपुरुषम् उदकम् । त्रिपुरुषम् उदकम् । द्विहस्ति । त्रिहस्ति । द्विपुरुषी । त्रिपुरुषी । द्विहस्तिनि । त्रिहसिनी ॥ यत्-तद्-एतेभ्यः परिमाणे वतुप्
tad asya ity eva, pramāṇe iti ca / puruṣahastibhyāṃ prathamāsamarthābhyāṃ pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ / puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram / hāstinam, hastidvayasam, hastidaghnam, hastimātram / dvigor nityaṃ luk / dvipuruṣam udakam / tripuruṣam udakam / dvihasti / trihasti / dvipuruṣī / tripuruṣī / dvihastini / trihasinī // yat-tad-etebhyaḥ parimāṇe vatup
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.