मतौ इत्य् एव, अध्यायानुवाकयोः इति च । गोषदादिभ्यः प्रातिपदिकेभ्यः वुन् प्रत्ययो भवति मत्वर्थे ऽध्यायानुवाकयोः । गोषदशब्दो ऽस्मिन्न् इति गोषडको ऽध्यायो ऽनुवाको वा । इषेत्वकः । मातरिश्वकः । गोषद । इषेत्वा । मातरिश्वन् । देवस्यत्वा । देवीरापः । कृष्णोस्याख्यरेष्टः । दैवींधियम् । रक्षोहण । अञ्जन । प्रभूत । प्रतूर्त । कृशानु । गोषदादिः ॥ तत्र कुशलः पथः
matau ity eva, adhyāyānuvākayoḥ iti ca / goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ / goṣadaśabdo 'sminn iti goṣaḍako 'dhyāyo 'nuvāko vā / iṣetvakaḥ / mātariśvakaḥ / goṣada / iṣetvā / mātariśvan / devasyatvā / devīrāpaḥ / kṛṣṇosyākhyareṣṭaḥ / daivīṃdhiyam / rakṣohaṇa / añjana / prabhūta / pratūrta / kṛśānu / goṣadādiḥ // tatra kuśalaḥ pathaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.