मतौ इत्य् एव, अध्यायानुवाकयोः इति च । विमुक्तादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति मत्वर्थे अध्यायानुवाकयोर् अभिधेययोः । विमुक्त-शब्दो ऽस्मिन्न् अस्ति वैमुक्तो ऽध्यायः अनुवाको वा । दैवासुरः । विमुक्त । देवासुर । वसुमत् । सत्वत् । उपसत् । दशार्हपयस् । हविर्द्धान । मित्री । सोमापूषन् । अग्नाविष्णु । वृत्रहति । इडा । रक्षोसुर । सदसत् । परिषादक् । वसु । मरुत्वत् । पत्नीवत् । महीयल । दशार्ह । वयस् । पतत्रि । सोम । महित्री । हेतु । विमुक्तादिः ॥ गोषदादिभ्यो वुन्
matau ity eva, adhyāyānuvākayoḥ iti ca / vimuktādibhyaḥ prātipadikebhyo 'ṇ pratyayo bhavati matvarthe adhyāyānuvākayor abhidheyayoḥ / vimukta-śabdo 'sminn asti vaimukto 'dhyāyaḥ anuvāko vā / daivāsuraḥ / vimukta / devāsura / vasumat / satvat / upasat / daśārhapayas / havirddhāna / mitrī / somāpūṣan / agnāviṣṇu / vṛtrahati / iḍā / rakṣosura / sadasat / pariṣādak / vasu / marutvat / patnīvat / mahīyala / daśārha / vayas / patatri / soma / mahitrī / hetu / vimuktādiḥ // goṣadādibhyo vun
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.