तावतां पूरणं तावतिथाम् । गृह्यते ऽनेन इति ग्रहणम् । प्रकृतिविशेषणं च+एतत् । पूरणप्रत्ययान्तात् प्रातिपदिकात् ग्रहणोपाधिकात् स्वार्थे कन् प्रत्ययो भवति । पूरणस्य प्रत्ययस्य वा लुक् । द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम् । त्रिकम्, तृतीयकम् । चतुष्कम्, चतुर्थकम् । तावतिथेन गृह्णाति इति कन् वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक् । षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः । पञ्चकः । चतुष्कः । इतिकरणो विवक्षार्थः । तेन ग्रन्थविषयम् एव ग्रहणम् विज्ञायते, न अन्यविषयम् ॥ स एषां ग्रामणीः
tāvatāṃ pūraṇaṃ tāvatithām / gṛhyate 'nena iti grahaṇam / prakṛtiviśeṣaṇaṃ ca+etat / pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati / pūraṇasya pratyayasya vā luk / dvitīyena rūpeṇa granthaṃ gṛhṇāti dvikaṃ grahaṇam, dvitīyakam / trikam, tṛtīyakam / catuṣkam, caturthakam / tāvatithena gṛhṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk / ṣaṣṭhena rūpeṇa granthaṃ gṛhṇāti ṣaṭko devadattaḥ / pañcakaḥ / catuṣkaḥ / itikaraṇo vivakṣārthaḥ / tena granthaviṣayam eva grahaṇam vijñāyate, na anyaviṣayam // sa eṣāṃ grāmaṇīḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.