प्राणिस्थवाचिनः शब्दात् आकारान्तात् लच् प्रत्ययो भवत्य् अन्यतरस्यां मत्वर्थे । चूडालः, चूडावान् । कर्णिकालः, कर्णिकावान् । प्राणिस्थात् इति किम् ? शिखावान् प्रदीपः । आत् इति किम् ? हस्तवान् । पादवान् । प्राण्यङ्गाद् इति वक्तव्यम् । इह मा भूत्, चिकीर्षा ऽस्य अस्ति चिकीर्षावान्, जिहीर्षा ऽस्य अस्ति जिहीर्षावान् । प्रत्ययस्वरेण+एव अन्तोदात्तत्वे सिद्धे, चकारश् चूडालो ऽस्ति इत्य् अत्र स्वरितो वानुदत्ते पदादौ (*८,२।६) इति स्वरितबाधनार्थः ॥ सिध्म-आदिभ्यश् च
prāṇisthavācinaḥ śabdāt ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe / cūḍālaḥ, cūḍāvān / karṇikālaḥ, karṇikāvān / prāṇisthāt iti kim ? śikhāvān pradīpaḥ / āt iti kim ? hastavān / pādavān / prāṇyaṅgād iti vaktavyam / iha mā bhūt, cikīrṣā 'sya asti cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān / pratyayasvareṇa+eva antodāttatve siddhe, cakāraś cūḍālo 'sti ity atra svarito vānudatte padādau (*8,2.6) iti svaritabādhanārthaḥ // sidhma-ādibhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.