रसादिभ्यः प्रातिपदिकेभ्यः मतुप् प्रत्ययो भवति तद् अस्य अस्त्य् अस्मिन् इत्य् एतस्मिन् विषये । रसवान् । रूपवान् । किमर्थम् इदम् उच्यते, न पूर्वसूत्रेण+एव मतुप् सिद्धः ? रसादिभ्यः पुनर् वचनम् अन्यनिवृत्त्यर्थम्, अन्ये मत्वर्थीया मा भूवन्न् इति । कथं रूपिणी कन्या, रूपिको दारकः ? प्रायिकम् एतद् वचनम् । इतिकरणो विवक्षार्थो ऽनुवर्तते । अथ वा गुणात् इति अत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषाम् अत्र पाठः । इह मा भूत्, रूपिणी, रूपिकः इति । शोभायोगो गम्यते । रसिको नटः इत्य् अत्र भावयोगः । रस । रूप । गन्ध । स्पर्श । शब्द । स्नेह । गुणात् । एकाचः । गुन-ग्रहणं रसादीनां विशेषणम् ॥ प्राणिस्थाद् आतो लज् अन्यतरस्याम्
rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin ity etasmin viṣaye / rasavān / rūpavān / kimartham idam ucyate, na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar vacanam anyanivṛttyartham, anye matvarthīyā mā bhūvann iti / kathaṃ rūpiṇī kanyā, rūpiko dārakaḥ ? prāyikam etad vacanam / itikaraṇo vivakṣārtho 'nuvartate / atha vā guṇāt iti atra paṭhyate / tena ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ / iha mā bhūt, rūpiṇī, rūpikaḥ iti / śobhāyogo gamyate / rasiko naṭaḥ ity atra bhāvayogaḥ / rasa / rūpa / gandha / sparśa / śabda / sneha / guṇāt / ekācaḥ / guna-grahaṇaṃ rasādīnāṃ viśeṣaṇam // prāṇisthād āto laj anyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.