जीविकार्थं यद् अपण्यम् तस्मिन्न् अभिधेये कनो लुब् भवति । विक्रीयते यत् तत् पण्य । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते । अपण्ये इति किम् ? हस्तिकान् विक्रीणीते । अश्वकान् । रथकान् । देवपथादेर् एव अयं प्रपञ्चः ॥ देवपथादिभ्यश् च
jīvikārthaṃ yad apaṇyam tasminn abhidheye kano lub bhavati / vikrīyate yat tat paṇya / vāsudevaḥ / śivaḥ / skandaḥ / viṣṇuḥ / ādityaḥ / devalakādīnāṃ jīvikārthā devapratikṛtaya ucyante / apaṇye iti kim ? hastikān vikrīṇīte / aśvakān / rathakān / devapathāder eva ayaṃ prapañcaḥ // devapathādibhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.