सञ्ज्ञायाम् इत्य् एव । सञ्ज्ञायां विहितस्य कनो मनुस्ये ऽभिधेये लुब् भवति । चञ्चेव मनुष्यः चञ्चा । दासी । खरकुटी । मनुस्ये इति किम् ? अश्वकः । उष्ट्रकः । गर्दभकः । देवपथादेर् आकृतिगणत्वात् तस्य+एव अयं प्रपञ्चो वेदितव्यः ॥ जीविकार्थे चापण्ये
sañjñāyām ity eva / sañjñāyāṃ vihitasya kano manusye 'bhidheye lub bhavati / cañceva manuṣyaḥ cañcā / dāsī / kharakuṭī / manusye iti kim ? aśvakaḥ / uṣṭrakaḥ / gardabhakaḥ / devapathāder ākṛtigaṇatvāt tasya+eva ayaṃ prapañco veditavyaḥ // jīvikārthe cāpaṇye
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.