इवार्थे इति निवृत्तम् । नानाजातिया अनियतवृत्तयो ऽर्थकाम् अप्रधानाः सङ्घाः पूगाः । पूगवाचिनः प्रातिपदिकात् अग्रामणीपूर्वात् स्वार्थे ञ्यः प्रत्ययो भवति । लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः । शैव्यः, शैब्यौ, शिबयः । चातक्यः, चातक्यौ, चातकाः । अग्रामणीपूर्वात् इति किम् ? देवदत्तो ग्रामणीरेषां त इमे देवदत्तकाः । यज्ञदत्तकाः ॥ व्रात-च्फञोर् अस्त्रियाम्
ivārthe iti nivṛttam / nānājātiyā aniyatavṛttayo 'rthakām apradhānāḥ saṅghāḥ pūgāḥ / pūgavācinaḥ prātipadikāt agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati / lauhadhvajyaḥ, lauhadhvajyau, lohadhvajāḥ / śaivyaḥ, śaibyau, śibayaḥ / cātakyaḥ, cātakyau, cātakāḥ / agrāmaṇīpūrvāt iti kim ? devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ / yajñadattakāḥ // vrāta-cphañor astriyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.