नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः । व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्य् अस्त्रियाम् । कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः । व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः । च्फञः खल्व् अपि - कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः । ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः । अस्त्रियाम् इति किम् ? कपोतपाकी । व्रीहिमती । कौञ्जायनी । ब्राध्नायनी ॥ आयुध-जीविसङ्क्घाञ्ञ्यड्-वाहीकेष्व् अब्राह्मण-राजन्यात्
nānājātiyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ / vrātavācibhyaḥ prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām / kāpotapākyaḥ, kāpotapākyau, kapotapākāḥ / vraihimatyaḥ, vraihimatyau, vrīhimatāḥ / cphañaḥ khalv api - kauñjāyanyaḥ, kauñjāyanayau, kauñjāyanāḥ / brādhnāyanyaḥ, brādhnāyanyau, brādhnayanāḥ / astriyām iti kim ? kapotapākī / vrīhimatī / kauñjāyanī / brādhnāyanī // āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.