आभिजित्यः, आभिजित्यौ, आभिजिताः । वैदभृत्यः, वैदभृत्यौ, वैदभृताः । शालावत्यः, शालावत्यौ, शालावताः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः । गोत्रप्रत्ययस्य अत्र अणो ग्रहणम् इष्यते । अभिजितो मुहुर्तः, आभिजितःस्थालीपाकः इत्य् अत्र न भवति ॥ ञ्यादयस् तद्राजाः
ābhijityaḥ, ābhijityau, ābhijitāḥ / vaidabhṛtyaḥ, vaidabhṛtyau, vaidabhṛtāḥ / śālāvatyaḥ, śālāvatyau, śālāvatāḥ / śaikhāvatyaḥ / śāmīvatyaḥ / aurṇāvatyaḥ / śraumatyaḥ / gotrapratyayasya atra aṇo grahaṇam iṣyate / abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ity atra na bhavati // ñyādayas tadrājāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.