आयुधजीविसङ्घात् इत्य् एव । पर्श्वादिभ्यः यौधेयादिभ्यश् च प्रातिपदिकेभ्यः आयुधजीविसङ्घवाचिभ्यः स्वार्थे ऽणञौ प्रत्ययौ भवतः । पार्शवः, पर्शवौ, पार्शवः । आसुरः, आसुरौ, असुराः । यौधेयः । शौक्रेयः । पर्शु । असुर । रक्षस् । बाह्लीक । वयस् । मरुत् । दशार्ह । पिशाच । विशाल । अशनि । कार्षापण । सत्वत् । वसु । पर्श्वादिः । यौधेय । कौशेय । क्रौशेय । शौक्रेय । शौभ्रेय । धार्तेय । वार्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ अभिजिद्-विदभृच्-छालावच्-छिखावच्-छमीवद्-ऊर्णावच्-छरुमद्-अणो यञ्
āyudhajīvisaṅghāt ity eva / parśvādibhyaḥ yaudheyādibhyaś ca prātipadikebhyaḥ āyudhajīvisaṅghavācibhyaḥ svārthe 'ṇañau pratyayau bhavataḥ / pārśavaḥ, parśavau, pārśavaḥ / āsuraḥ, āsurau, asurāḥ / yaudheyaḥ / śaukreyaḥ / parśu / asura / rakṣas / bāhlīka / vayas / marut / daśārha / piśāca / viśāla / aśani / kārṣāpaṇa / satvat / vasu / parśvādiḥ / yaudheya / kauśeya / krauśeya / śaukreya / śaubhreya / dhārteya / vārteya / jābāleya / trigarta / bharata / uśīnara / yaudheyādiḥ // abhijid-vidabhṛc-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.