दिक्-शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यो दिग्-देश-कालेष्व् अस्तातिः (*५,३।२७) इति वक्ष्यति । प्राग् एतस्माद् दिक्षं शब्दनाद् यान् इत ऊर्ध्वम् अनुक्रमिष्यामो विभक्तिसञ्ज्ञास् ते वेदितव्याः । वक्ष्यति - पञ्चम्यास् तसिल् (*५,३।७) । ततः । यतः । कुतः । तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः इदमो विभक्तिस्वरश् च । इह । ऊडिदम् इति विभक्त्युदात्तत्वं सिद्धं भवति । अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वान् न+उपयुज्यते इति निवृत्तम् । वावचनं तु वर्तत एव । तेन विकल्पेन तसिलादयो भवन्ति, कुतः , कस्मात्, कुत्र, कस्मिन् इति ॥ किं-सर्वनाम-बहुभ्यो ऽद्व्य्-आदिभ्यः
dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ (*5,3.27) iti vakṣyati / prāg etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās te veditavyāḥ / vakṣyati - pañcamyās tasil (*5,3.7) / tataḥ / yataḥ / kutaḥ / tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca / iha / ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati / ataḥ paraṃ svārthikāḥ pratyayāḥ, teṣu samarthādhikāraḥ prathamagrahaṇaṃ ca pratiyogyapekṣatvān na+upayujyate iti nivṛttam / vāvacanaṃ tu vartata eva / tena vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, kasmin iti // kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.