प्राग्दिशः इत्य् एव । किमः सर्वनाम्नो बहुशब्दाच् च प्राग्दिशः प्रत्ययाः वेदितव्याः । सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते । कुतः , कुत्र । यतः, यत्र । ततः, तत्र । बहुतः, बहुत्र । अद्व्यादिभ्यः इति किम् ? द्वाभ्याम् । द्वयोः । प्रकृतिपरिसङ्ख्यानं किम् ? वृक्षात् । वृक्षे । प्राग्दिशः इत्य् एव, वैयाकरणपाशः । सर्वनामत्वाद् एव सिद्धे किमो ग्रहणम् द्व्यादिपर्युदासात् । बहुग्रहणे सङ्ख्याग्रहणम् । इह न भवति, बहोः सूपात्, बहौ सूपे इति ॥ इदम् इश्
prāgdiśaḥ ity eva / kimaḥ sarvanāmno bahuśabdāc ca prāgdiśaḥ pratyayāḥ veditavyāḥ / sarvanāmatvāt prāpte grahaṇe dvyādiparyudāsaḥ kriyate / kutaḥ , kutra / yataḥ, yatra / tataḥ, tatra / bahutaḥ, bahutra / advyādibhyaḥ iti kim ? dvābhyām / dvayoḥ / prakṛtiparisaṅkhyānaṃ kim ? vṛkṣāt / vṛkṣe / prāgdiśaḥ ity eva, vaiyākaraṇapāśaḥ / sarvanāmatvād eva siddhe kimo grahaṇam dvyādiparyudāsāt / bahugrahaṇe saṅkhyāgrahaṇam / iha na bhavati, bahoḥ sūpāt, bahau sūpe iti // idam iś
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.