दिशां शब्दाः दिक्शब्दाः । तेभ्यो दिक्शब्देभ्यो दिग्-देश-कालेषु वर्तमानेभ्यः सप्तमी। पञ्चमी-प्रथमान्तेभ्यः अस्तातिः प्रत्ययो भवति स्वार्थे । यथासङ्ख्यम् अत्र न+इष्यते । पुरस्ताद् वसति । पुरस्ताद् आगतः । पुरस्ताद् रमणीयम् । अधस्ताद् वसति । अधस्ताद् आगतः । अधस्ताद् रमणीयम् । दिक्शब्देभ्यः इति किम् ? ऐन्द्र्यां दिशि वसति । सप्तमी-पञ्चमी-प्रथमाभ्यः इति किम् ? पूर्वं ग्रामं गतः । दिग्-देश-कालेसु इति किम् ? पूर्वस्मिन् गुरौ वसति । इकारस्तकारपरित्राणार्थः ॥ दिक्षिण-उत्तराभ्याम् अतसुच्
diśāṃ śabdāḥ dikśabdāḥ / tebhyo dikśabdebhyo dig-deśa-kāleṣu vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe / yathāsaṅkhyam atra na+iṣyate / purastād vasati / purastād āgataḥ / purastād ramaṇīyam / adhastād vasati / adhastād āgataḥ / adhastād ramaṇīyam / dikśabdebhyaḥ iti kim ? aindryāṃ diśi vasati / saptamī-pañcamī-prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ / dig-deśa-kālesu iti kim ? pūrvasmin gurau vasati / ikārastakāraparitrāṇārthaḥ // dikṣiṇa-uttarābhyām atasuc
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.