भागे इत्य् एव । षष्ठ-अष्टमाभ्यां यथासङ्ख्यं कन्-लुकौ च भवतो मानपश्वङ्गयोर् भागयोर् अभिधेययोः । षष्ठको भागो मानं चेत् तद् भवति । अष्टमो भागः पश्वङ्ग चेत् तद् भवति । कस्य लुक् ? ञस्य लुक् । अनो वा । चकाराद् यथाप्राप्तं च । षाष्ठः, षष्ठः । आष्टमः, अष्टमः । मानपश्वङ्गयोः इति किम् ? षाष्ठः, षष्ठः । आष्टमः, अष्टमः ॥ एकाद् आकिनिच् च असहाये
bhāge ity eva / ṣaṣṭha-aṣṭamābhyāṃ yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor bhāgayor abhidheyayoḥ / ṣaṣṭhako bhāgo mānaṃ cet tad bhavati / aṣṭamo bhāgaḥ paśvaṅga cet tad bhavati / kasya luk ? ñasya luk / ano vā / cakārād yathāprāptaṃ ca / ṣāṣṭhaḥ, ṣaṣṭhaḥ / āṣṭamaḥ, aṣṭamaḥ / mānapaśvaṅgayoḥ iti kim ? ṣāṣṭhaḥ, ṣaṣṭhaḥ / āṣṭamaḥ, aṣṭamaḥ // ekād ākinic ca asahāye
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.