सम्पूर्णता पदार्थानां समाप्तिः । स्तोकेनासम्पूर्णता ईषदसमाप्तिः । प्रकृत्यर्थविशेषणं च+एतत् । ईषदसमाप्तिविशेष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् कल्पप् देश्य देशीयर् इत्य् एते प्रत्यया भवन्ति । ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः । मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः । तिङश् च (*५,३।५६) इत्य् एव, पचतिकल्पम् । जल्पतिकल्पम् ॥ विभाषा सुपो बहुच् परस्तात् तु
sampūrṇatā padārthānāṃ samāptiḥ / stokenāsampūrṇatā īṣadasamāptiḥ / prakṛtyarthaviśeṣaṇaṃ ca+etat / īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt kalpap deśya deśīyar ity ete pratyayā bhavanti / īṣadasamāptaḥ paṭuḥ paṭukalpaḥ, paṭudeśyaḥ, paṭudeśīyaḥ / mṛdukalpaḥ, mṛdudeśyaḥ, mṛdudeśīyaḥ / tiṅaś ca (*5,3.56) ity eva, pacatikalpam / jalpatikalpam // vibhāṣā supo bahuc parastāt tu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.