तिङश् च (*५,३।५६) इत्य् एव । अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्व् अर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः । कस्य अपवादः । उच्चकैः । नीचकैः । शनकैः । सर्वनाम्नः खल्व् अपि - सर्वके । विश्वके । उभयके । प्रातिपदिकात्, सुपः इति द्वयम् अपि इह अनुवर्तते । तत्र अभिधानतो व्यवस्था भवति । क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य । युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्य् अत्र प्रातिपदिकस्य । त्वयका, मयका, त्वयकि, मयकि इत्य् अत्र सुबन्तस्य । अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः । स च मित्त्वाद् अन्त्यात् अचः परो भवति । तुष्णीकाम् आस्ते । तूष्णीकां तिष्ठति । शीले को मलोपश् च वक्तव्यः । तूष्णींशीलः तूष्णीकः । तिङश् च (*५,३।५६) इति प्रकृतमत्र सम्बध्यते । पचतकि । जल्पतकि ॥ कस्य च दः
tiṅaś ca (*5,3.56) ity eva / avyayānām sarvanāmnāṃ ca prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ / kasya apavādaḥ / uccakaiḥ / nīcakaiḥ / śanakaiḥ / sarvanāmnaḥ khalv api - sarvake / viśvake / ubhayake / prātipadikāt, supaḥ iti dvayam api iha anuvartate / tatra abhidhānato vyavasthā bhavati / kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya / yuṣmakābhiḥ , asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, āvakayoḥ, ity atra prātipadikasya / tvayakā, mayakā, tvayaki, mayaki ity atra subantasya / akacprakaraṇe tūṣṇīmaḥ kāmpratyayo vaktavyaḥ / sa ca mittvād antyāt acaḥ paro bhavati / tuṣṇīkām āste / tūṣṇīkāṃ tiṣṭhati / śīle ko malopaś ca vaktavyaḥ / tūṣṇīṃśīlaḥ tūṣṇīkaḥ / tiṅaś ca (*5,3.56) iti prakṛtamatra sambadhyate / pacataki / jalpataki // kasya ca daḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.