अनजादौ विभाषा लोपो वक्तव्यः । देवदत्तकः, देवकः । यज्ञदत्तकः, यज्ञकः । लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः । दत्तिकः, दत्तिलः, दत्तियः, दत्तकः । विना ऽपि प्रत्ययेन पूर्वोत्तरपदयोः विभाषा लोपो वक्तव्यः । देवदत्तो दत्तः, देव इति वा । उवर्णाल् ल इलस्य च । भानुदत्तो भानुलः । वसुदत्तो वसुलः । चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथा+एव+इष्ट उवर्णाल् ल इलस्य च ॥ द्वितीयाद् अचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर् लोपवचनम् । लहोडः लहिकः । कहोडः कहिकः । एकाक्षरपूर्वपदानाम् उत्तरपदलोपो वक्तव्यः । वागाशीः वाचिकः । स्रुचिकः । त्वचिकः । कथं षडङ्गुलिदत्तः षडिकः इति ? षषष्ठाजादिवचनात् सिद्धम् ॥ शेवल-सुपरि-विशाला-वरुण-अर्यम-आदिनां तृतीयात्
anajādau vibhāṣā lopo vaktavyaḥ / devadattakaḥ, devakaḥ / yajñadattakaḥ, yajñakaḥ / lopaḥ pūrvapadasya ca ṭhājādāvanajādau ca vaktavyaḥ / dattikaḥ, dattilaḥ, dattiyaḥ, dattakaḥ / vinā 'pi pratyayena pūrvottarapadayoḥ vibhāṣā lopo vaktavyaḥ / devadatto dattaḥ, deva iti vā / uvarṇāl la ilasya ca / bhānudatto bhānulaḥ / vasudatto vasulaḥ / caturthādanajādau ca lopaḥ pūrvapadasya ca / apratyaye tathā+eva+iṣṭa uvarṇāl la ilasya ca // dvitīyād aco lope sandhyakṣaradvitīyatve tadāder lopavacanam / lahoḍaḥ lahikaḥ / kahoḍaḥ kahikaḥ / ekākṣarapūrvapadānām uttarapadalopo vaktavyaḥ / vāgāśīḥ vācikaḥ / srucikaḥ / tvacikaḥ / kathaṃ ṣaḍaṅgulidattaḥ ṣaḍikaḥ iti ? ṣaṣaṣṭhājādivacanāt siddham // śevala-supari-viśālā-varuṇa-aryama-ādināṃ tṛtīyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.