नौशब्दान्तात् द्विगोः टच् प्रत्ययो भवति समासान्तः । द्वे नावौ समाहृते द्विनावम् । त्रिनावम् । द्विनावधनः । पञ्चनावप्रियः । द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम् । द्विनावमयम् । द्विगोः इति किम् ? राजनौः । अतद्धितलुकि इत्य् एव, पञ्चभिर् नौभिः क्रीतः पञ्चनौः । दशनौः ॥ अर्धाच् च
nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ / dve nāvau samāhṛte dvināvam / trināvam / dvināvadhanaḥ / pañcanāvapriyaḥ / dvābhyāṃ naubhyāmāgataṃ dvināvarūpyam / dvināvamayam / dvigoḥ iti kim ? rājanauḥ / ataddhitaluki ity eva, pañcabhir naubhiḥ krītaḥ pañcanauḥ / daśanauḥ // ardhāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.