द्वित्रिभ्यां परो यो ऽञ्जलिशब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति । द्वावञ्जली समाहृतौ द्व्यञ्जलम् । त्र्यञ्जलम् । द्विगोः इत्य् एव, द्व्योर् अञ्जलिः द्व्यञ्जलिः । अतद्धितलुकि इत्य् एव, द्वाभ्याम् अञ्जलिभ्यां क्रीतः द्व्यञ्जलिः । त्र्यञ्जलिः । प्राचाम् इत्य् एव, द्व्यञ्जलिप्रियः ॥ अन्-अस्-अन्तान् नपुंसकाच् छन्दसि
dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati / dvāvañjalī samāhṛtau dvyañjalam / tryañjalam / dvigoḥ ity eva, dvyor añjaliḥ dvyañjaliḥ / ataddhitaluki ity eva, dvābhyām añjalibhyāṃ krītaḥ dvyañjaliḥ / tryañjaliḥ / prācām ity eva, dvyañjalipriyaḥ // an-as-antān napuṃsakāc chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.