कर्मव्यतिहारे यो बहुव्रीहिः तस्माद् इच् प्रत्ययो भवति । तत्र तेन+इदम् इति सरूपे (*२,२।२७) इत्य् अयं बहुव्रीहिर् गृह्यते । केशेसु केशेसु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । कचाकचि । मृसलैश् च मुसलैश् च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि । दण्डादण्डि । तिष्ठद्गुप्रभृतिषु अयम् इच् प्रत्ययः पठ्यते ॥ द्विदण्ड्यादिभ्यश् च
karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo bhavati / tatra tena+idam iti sarūpe (*2,2.27) ity ayaṃ bahuvrīhir gṛhyate / keśesu keśesu gṛhītvā idaṃ yuddhaṃ pravṛttaṃ keśākeśi / kacākaci / mṛsalaiś ca musalaiś ca prahṛtya idaṃ yuddhaṃ pravṛttaṃ musalāmusali / daṇḍādaṇḍi / tiṣṭhadguprabhṛtiṣu ayam ic pratyayaḥ paṭhyate // dvidaṇḍyādibhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.