त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वते ऽभिधेये । त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः । ककुदाकारं पर्वतस्य शृङ्गं ककुदम् इत्य् उच्यते । न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत् । किं तर्हि ? सञ्ज्ञैषा पर्वतविशेषस्य । पर्वते इति किम् ? त्रिककुदो ऽन्यः ॥ उद्-विभ्यां काकुदस्य
trikakudi bahuvrīhau kakudaśabdasya lopaḥ samāsānto nipātyate parvate 'bhidheye / trīṇi kakudānyasya trikakut parvataḥ / kakudākāraṃ parvatasya śṛṅgaṃ kakudam ity ucyate / na ca sarvastriśikharaḥ parvataḥ trikakut / kiṃ tarhi ? sañjñaiṣā parvataviśeṣasya / parvate iti kim ? trikakudo 'nyaḥ // ud-vibhyāṃ kākudasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.